SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ x १ आवश्यक ॥८ ॥ यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति विपर्ययसाधात् , य एव च मति हारिभद्री श्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधात् , विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञान- यवृत्तिः त्रयं संभवतीति लाभसाधाच्च । तथा मनःपर्यवज्ञानं, अयं भावार्थः-परिः सर्वतो भावे, अवनं अवः, अवनं गमनं / विभागः१ वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मैनसो वा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनान्तरं, तेषु ज्ञानं मनःपर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसं-13 ज्ञिमनोगतद्रव्यालम्बनमेवेति, तथाशब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् !, छद्मस्थस्वामिसाधर्म्यात् , तथा पुद्गलोत्रालम्बनत्वसाम्यात्, तथा क्षायोपशमिकभावसाम्यात् , तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसदृशमितिहृदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त विषयसप्तमी. २ सम्बन्धे षष्ठी. ३ विना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोव्याणि जानात्यनेनेति ज्ञापनाय वा. ४ अरूपिद्रव्यालम्बनम्यवछेदाय मात्रेति. ५“जीवो अक्खो अत्यन्बावणभोयणगुणण्णिओ जेणं । तं पइ वट्टइ नाणं, पञ्चक्खं तयं तिविहं" (वि०८९)इति. ६ अपेक्षाऽत्री सहावस्थानरूपा. ७ मत्यादीनां स्वावरणोपेतत्वात् , अङ्को लक्ष्म. ८ उत्पत्तिसमय एव. ९ न तारतम्यवत् न्यून वा कदापि. १० अन्यस्य कस्यापि रूप्यरूपि| सूक्ष्मदूरेतरादिपदार्थाग्राहकत्वात्. " आधारापेक्षयाऽसंख्येयत्वेऽपि. * व्यसंभवतो 1 परि. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy