________________
"
मिति वचनात् तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य प्रवाहापेक्षया अतीतानागतवर्त्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण "दोवारे विजयाइसु गयस्स तिण्णचुए अहव ताई । अइरेगं णरभविअं णाणाजीवाण संबद्धं ॥ १ ॥” यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम् एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमर्नयोरेवावधारयति, आभिनिबोधिक श्रुतज्ञाने एव परोक्षे इति भावार्थः । तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव तदुपयोग हेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्ववदेव, अवधानं बाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वय साधर्म्यप्रदर्शनार्थः स्थित्यादिसाधर्म्यात्, कथम् ?, यावान्मतिश्रुतस्थितिकालः प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधेरपि, अतः स्थितिसाधर्म्यात्,
१ एकेन्द्रियादिषु क्षयोपशमसद्भावाद्वयोः संज्ञासद्भावाच्च श्रुतसत्ता ( वि० १०२ प्रभृति के ), सम्यग्ज्ञानापेक्षया. २ श्रीमता जिनभद्रगणिक्षमाश्रमणेन. ३ द्वौ वारौ विजयादिषु गतस्य श्रीन् वारान् अच्युतेऽथवा तानि ( षट्षष्टिसागरोपमाणि) अतिरिक्तं नरभविकं ( अप्रतिपतितैकजीवापेक्षया ) नानाजीवानां सर्वाद्धं (वि० ४३६). ४ ओघादेशात्सूत्रादेशाद्वा. ५ आदिना क्षेत्रकालभावग्रहः ६ द्रव्येन्द्रियमनोनिष्पाद्यत्वात्. ७ दर्शन रूपयो धन्यवच्छेदाय. ८ रूपद्रव्यात्मिकया. ९ क्षयोपशमस्याभावरूपत्वेनेदम्. आत्मस्वरूपं ज्ञानमित्युक्तमिदम्. * तदावरण० १४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org