SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥ ७ ॥ व्याख्या - अर्थाभिमुखो निर्यतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकं, विनयादिपाठात् अभिनि| बोधशब्दस्य " विनयादिभ्यष्ठगू” ( पा० ५.४-३४ ) इत्यनेन स्वार्थ एव ठक्प्रत्ययो यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तैस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिवुध्यते वाऽनेनेत्याभिनिबोधिकं तदावरण कर्मक्षयोपशम इति भावार्थ:, अभिनिवुध्यते अस्मादिति वाऽऽभिनिबोधिकं तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकं, | आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुत कारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः श्रूयतेऽस्मादिति वा श्रुतं, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात् श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकर्क्षतो|द्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ?, य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य " जत्थ मइनाणं तत्थ सुयणाण' ,, १ पदार्थनान्तरीयकः. २ नियतविषयं नतु द्विचन्द्रादिवत् ३ प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राकू प्रकाशकम् ४ एकत्वात् कर्तृकर्मैक्यात्. ५ ' भावाकर्त्रीः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्दनिष्पत्तिः, कर्तरि तु लिहादित्वादच्, ६ बहुलवचनात् कर्मादिध्वपि को नपुंसके, प्राभृतज्ञो द्रव्यमिति भव्यमाहेतिवचनात्प्राभृताद्वा निष्पत्तिरेवमन्यत्राप्यूह्यम् ७ ज्ञानद्वयानन्तरं चस्त्र पाठात् ८ तुल्यपक्षतोद्बोधनाय. * कृदन्तन्युत्पत्तये, उपसर्गावत्र विशेषको धातोः + प्रकाशकमती + भिन्नत्वाशङ्कापनोदाय | ०कर्म० १-४. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥ ७ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy