________________
प्रतिपद्यते, भेदाश्च पर्यायाएवेति,अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात् , तथा च मङ्गलॉद्यभिधानं सिद्धार्थभिधानं चोपश्रुत्य अर्हत्प्रतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिर्शरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽहन्नमस्करादि भावमङ्गलमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत् , द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दीद्वादशप्रकारस्तूर्यसंघातः 'भंभा मुकुंद मद्दल कडंब झल्लरि हुडुक्क कंसाला । काहलि तैलिमा वंसो, संखो पणवो य बारसमो॥१॥' तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता + उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदम्___ आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥
जानीते. २ निक्षेपचतुष्कस्य भिन्नभिन्नाधिकरणतामाश्रित्याह. ३ अवयवाः.४ भावमङ्गलनिदानत्वात्. ५ आदिना ज्ञाननिर्जरादिग्रहः. ६ विशेषनाम्नां कारणतायै, आदिना जिनेन्द्रादिः. ७ सम्यग्दर्शनादेः प्रबलकारणत्वात् , शय्यम्भवादिवत् . ८ 'इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं आवस्सएत्ति पयं सेअकाले सिक्खिस्सइ न ताव सिक्खति' इति अनुयोगद्वारवचनात् . ९ज्ञात्वा दृष्ट्वा वा १. क्लिष्टस्याभावातू. ११ ज्ञानचारित्रोपयोगग्रहः. १२ 'कय-TV पंचनमुक्कारस्स दिन्ति सामाइयाइयं विहिणा' इतिवचनात्सूत्रापेक्षं, १३ अनुयोगापेक्षं, नन्द्यनुयोगस्यैकदेशत्वादू . १४ कर्तृतामापन्नाः. १५ 'दब्वे तूरसमुदओ' इति वचनातू, क्रियाविशिष्ट इत्यध्याहार्यमन्यथा नामनन्दीत्वापत्तेः. *तिलिमा १-४. तदुपयुक्तः १-३-४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org