SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ खल्वागमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥ ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्तते; ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च प्रामुवन्ति केचिद्देवतानुग्रैहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्यन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्त, स्वकार्यप्रसाधकत्वात् , न नामादयः, तत्कार्याप्रसाधकत्वात् , पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात् , यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं REACHAR नोशब्दस्य सर्वदेशनिषेधैकदेशवाचकत्वात् , क्रमेण नोआगमतो मङ्गलपदार्थत्रयं ज्ञानचतुष्टयादिरूपम्. २ द्रव्येषु दधिदूर्वादिषु अन्यादिषु च मङ्गलाभिधानं. ३ "अभिहाणं दम्वत्तं तयत्थसुन्नत्तणं च तुल्लाई" इतिविशेषावश्यके पृथक् प्रोक्तं, अन तु तदर्थशून्यत्वं द्न्यत्वे हेतुतयोक्तम् , 'यवस्तुनोऽभिधान' मिति 'यत्तु तदर्थवियुक्त' मिति वचनानामस्थापनयोरपि द्रव्यत्वं, कारणता सर्वत्रेति वा द्रव्यता, पूर्व निक्षेपचतुष्कस्य प्रकान्तस्वानामग्यभेदविषयाशङ्का, विवक्षितेत्यादेस्तु द्रव्यत्वे हेतुता. ४ भावे संभवानाम्न आह-द्रव्यत्वमिति,विवक्षितभावशून्यत्वं हि तत्,नच तद्भाव इति। ५ स्पष्टं लक्ष्यमानत्वादादौ स्थापना| भेद निरूपणम्. ६ सद्भावस्थापनापेक्षया. ७ अवितथेति. ८ बुद्धिः ९ सहस्राक्षवज्रधरस्वादि १. प्रतीतिः ११ आराधनातत्परतादर्शनाय. १२ सुतधनादि फलं. १३ तत्पाक्षिकेति. १४ स्थूलबुद्धेलौकस्य तत्र तथाध्यवसायाद्यभावात्. १५ नोआगमतो भावेन्द्रस्य. १६ कब्धिज्ञानवतां.१७ भव्यशरीरगन्यं. १७३श|रीरद्रव्यं. १९ अर्थक्रियाकारि वस्त्वित्यभिप्रेत्याह. २० निर्विघ्नशास्त्रार्थपारगमनादि. २१ नाममङ्गकादीनां. २२ भर्मरूपत्वात्. २३ भव्युत्पादितं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy