________________
समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम् अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा - आगमतो नोआगमतश्च तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाढू इति चेत्, न, अभिप्रायापरिज्ञानात् संवित् ज्ञानम् अवगमो भाव इत्यनर्थान्तरं तत्र 'अर्थाभिधानप्रत्ययाः तुल्यनामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणों गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीप हस्तान्धवत् पुरुषन्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुख दुःखपरिणामान्यत्वादू, आकाशवत् न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नीदिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते - नोआगमतो भावमङ्गलम् आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वान्नोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम | एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वान्नोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराद्युपयोगः
१ मङ्गलाधिकारे भावाधिकारे भावलक्षणसिद्धौ वा २ अर्थाभिधानप्रत्ययेतिन्यायादभिज्ञानस्याभिरूपत्वं, तदव्यतिरिक्तस्य ज्ञातुरपि, तथा सति अभिलक्षणत्वमिति ज्ञायते ३ ज्ञानात्मनोर्व्यतिरिक्तत्वे. ४ ज्ञानात्मनोर्भेदात् ५ प्रदीपवज्ज्ञानम्, अन्धवज्ज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तत्वं च निकटत्वाय. ६ समवायापेक्षया दृष्टान्तान्तरं अन्तरापेक्षया वा ७ विषयवैशिश्यशून्यं, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात्. ८ प्रसङ्गोऽनिष्टापत्तिः ९ चकारो नोपल भेतेत्यनेन सह समुच्चयार्थः, ज्ञानात्मनोर्भेदे दूषणान्तरमेतदिति १० स्यादित्यध्याहार्यम्. ११ चन्द्रकान्तमणिव्यवहित। देहः, भस्म च्छन्नादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तवम् । १२ नोशब्दस्य पर्युदासप्रतिषेधार्थत्वादागमवर्थं ज्ञानचतुष्टयमिति. * ज्ञानोपयुक्तो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org