SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आवश्यक अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमासः। एतदुक्तं भवति–मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकाला- |हारिभद्रीनुभूततद्भावानुवृत्त्या सिद्धशिलोदितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्य । यवृत्तिः त्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः। तथा भव्यो योग्यः, मङ्गलपदार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य विभागः१ इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम् , अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थः-भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगोधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्ग| मिति,नोशब्दः पूर्ववत्। ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुप-13 युक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणामं, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यदू भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्तं, भव्यशरीरद्रव्यमङ्गलवत्, तथा यदेपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम् , अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । "भावो विवक्षितंक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥४॥" अस्थायमर्थः-भवनं भावः, स हि वक्तुभिष्टक्रियानुभवलक्षणः सर्वज्ञैः मङ्गलभावेति. २ यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सेति, ( अनु० ) आदिना तीर्थकरनिर्वाणभूम्यादि, ३ आदिना मधुकुम्भादि. ४ नोआगमतोपपादनाय. ५ भावमङ्गलकारणताज्ञापनाय. ६ आदिना युवादि. ७ सर्वनिषेध एव. ८ उभयसमुच्चयायापि. ९ आदिना तपोनियमादि. १० शरीरमात्मद्रव्यं वा. ११ ज्ञभव्यशरीरेति उभयं १२ निमित्तकारणस्यापि द्रव्यत्वार्थ. १३ बदित्यन्तः. * नानुपयुक्तः १-२-३-४ + चाती०१३ SC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy