________________
कककककल
व्याख्यानत्वात इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्व प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहवक्तव्यत्वात् मा भूदिहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्ग इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थ, विशेषेण सूत्रव्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमःप्रक्रान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति । | एगमि' णगरे एगेण कस्सइ धुत्तस्स सगासाओ गावी रोगिता उडितुंपि असमत्था णिविट्ठा चेव किणिता, 8सो तं पडिविकिणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविद्या
चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे ण सोअबं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुण
एकस्मिन्नगरे एकेन कस्यचिद्भूतस्य सकाशागौर्रागिणी उत्थातुमप्यसमर्था निविष्टैव क्रीता, स तां प्रतिविक्रीणाति, क्रायका भणन्ति-प्रेक्षामहेऽस्या गति8 प्रचारं, ततः ऋष्यामः, स भणति-मयाऽपि उपविष्टैव गृहीता, यदि प्रतिभाति तदा यूयमपि एवमेव गृहीत । एवं य आचार्यः पृष्टः परिहारान्तरं दातुमसमर्थों | भणति-मयाऽपि एवं श्रुतं यूयमपि एवं शृणुतेति, तस्य सकाशे न श्रोतव्यं, सांशयिकपदार्थे मिथ्यात्वसंभवात्, यः पुन
Jain Education int
o nal
For Personal & Private Use Only
Momainelibrary.org