SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥९६ ॥ भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः?, भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्त- हारिभद्रीविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमानं करोति, कश्चित् स्थूरावयवनिष्पत्तिं, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दार्टी- यवृत्तिः न्तिकयोजना पूर्ववत् २। इदानी चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रं करोति, कश्चित्तु विभागः१ हरितालादिवर्णोद्भेदं, कश्चित्त्वशेषपर्यायनिष्पादयति, दार्शन्तिकयोजना पूर्ववत् ३ । श्रीगृहिकोदाहरणं-श्रीगृहं-भाण्डागारं तदस्यास्तीति 'अत इनिठनौ' (५-२-११५) इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः ४ । तथा 'पोंडं' इति पुण्डरीक पद्मं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानी देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिका-यथा कश्चिद्दे-15 शिकः पन्थानं पृष्टः दिङ्मात्रमेव कथयति, कश्चित् तब्यवस्थितग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दार्शन्तिकयोजना पूर्ववत् ज्ञेया ६ । एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः॥१३५॥ इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहगोणी१चंदणकंथारचेडीओ३ सावए४बहिरगोहे ६ । टंकणओ ववहारो७, पडिवक्खो आयरियसीसे॥१३६॥ आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ?, अनुगमान्तर्भावात् , अन्तर्भावस्तु SAUSISUSTUSSESSIONS dan Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy