________________
अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं - "जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दट्ठबं” अलं विस्तरेण । द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यैस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोगं करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा ही पसागर प्रज्ञया मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्या व्याख्यानं, उक्तं च "जंबुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मवि - जमाणा हवंति लोगा असंखिजा ॥ १ ॥” क्षेत्रैरनुयोगो यथा “बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि” क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां कालेनानुयोगो यथा - बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुध्यांकालेषु अवसर्पिण्यां त्रिषु कालेषु - सुषमदुष्षमायां चरमभागे दुष्षमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये - दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां षोडशानां वा, वचनेनानुयोगो यथा - कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति,
O
१ जीवपर्यवा भदन्त ! किं संख्येया असंख्येया अनन्ताः ?, गौतम ! नो संख्येयाः नो असंख्येया अनन्ताः, एवमजीवपर्यंवाणां पृच्छा उत्तरं च द्रष्टव्यं । २ जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ १ ॥ ३ बहुभिर्द्वीपसमुदैः पृथ्वी जीवानां.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org