SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥८७॥ HASHASSANSAs समुदायार्थः, अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकाथिकानुयोगादे हारिभद्रीभेदेनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थ, उक्तं च-सुत्तधरा अत्थधरो इत्यादि' ॥१३१ ॥ तत्र अनुयोगा यवृत्तिः विभागः१ ख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽहणाम ठवणा दविए खित्ते काले य वयण भावे य। एसो अणुओगस्स उणिक्खेवो होइ सत्तविहो ॥१३२॥ | गमनिका-'नाम' प्राक् निरूपितं, तत्र नामानुयोगो-यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नोवा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, 'स्थापना' अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, 'द्रव्ये' इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनो. आगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षडूभेदयोजना कार्येति,तत्र द्रव्यानुयोगो द्विविधः-जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्येयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञा-2 नदर्शनचारित्राचारित्रदेशचारित्रअगुरुलघुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एक द्रव्यं 8 क्षेत्रत एकप्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणतितादिभेदेन द्रष्टव्याः, एवं ब्यणुकादीनामप्यनन्ताणुस्कन्धावसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां-स च जीवाजीवभेदभिन्नानां jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy