SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ इत्थं तावदुपोद्घातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तं - ' तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिकं निर्युक्तिसमुत्थानप्रसङ्गेनोकं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं वाऽभिधातुकाम आह | जिणपवयणउत्पत्ती पवयणएगट्टिया विभागो य । दारविही य नयविही वक्खाणविही य अणुओगो ॥ १२८ ॥ व्याख्या - इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसङ्गशेषं, द्वाराणां विधिः द्वारविधिः, विधानं विधिः, स पोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थे अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकनिर्युक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह - चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थं, तथाहि - नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह - चतुरनुयोगद्वारातिरिक्त व्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं विस्तरेणेति गाथार्थः ॥ १२८ ॥ तत्र जिनप्रवचनोत्पत्तिर्निर्युक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाह - एगट्टियाणि तिष्णि उ पवयण सुत्तं तहेव अत्थो अ । इक्किक्कस्स य इत्तो नामा एमडिआ पंच ॥ १२९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy