________________
आवश्यक
हारिभद्री यवृत्तिः विभागः१
॥८६॥
सुय धम्म तिस्थ मग्गो पावयणं पवयणं च एगहा । सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा ॥१३०॥ अणुओगो य नियोगो भास विभासा य वत्तियं चेव । अणुओगस्स उ एए नामा एगहिआ पंच ॥१३१॥
प्रथमगाथाव्याख्या-एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थों तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् , सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात् , अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति, तथाहि-अविवृतं मुकुलतुल्यं सूत्रं, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पद्मकार्थिकानि, तथा कुड्मलं वृन्दं संकुचितमित्यादि मुकुलैकार्थिकानि, तथा विकचं फुलं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थाना- मपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा अन्यथा व्याख्यायते-एकार्थिकानि त्रीण्येवाश्रित्यः वक्तव्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्ववत्। आह-द्वारगाथायां यदुक्तं 'प्रवचनैकार्थिकानिवक्तव्यानि तब्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आह-यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणकार्थिकानि वक्तव्यानि सामान्यविशेषरूप
॥८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org