________________
आवश्यक- दन्तव्यः । अभिहितमानुषङ्गिक, इदानी प्रकृतमुच्यते-आह-पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिक तत्रापि
हारिभद्री 'करोमि भदन्त ! सामायिकं यावज्जीवं' इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञा- यवृत्तिः ॥८ ॥
लोप इति, अत्रोच्यते,-अतिचाराभावात् , तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन विभागः१ टूसंज्ञामात्र विशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथम' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापन' छेदश्चोपस्थापनं च | यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति–पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनं, इदानी परिहारविशुद्धिक-तत्र परिहरणं परिहारः-तपोविशेषः तेन विशुद्धियस्मिंस्तत्परिहारविशुद्धिक, तच्च द्विभेदं-निर्विशमानक निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानका-18॥८॥ नामयं परिहारः-परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । १॥
1 परिहारिकाणां तु तपो जघन्य मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् । । ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org