________________
तद्भावेऽपि च समर्पितसाटकं कुविन्द तन्निष्पादनमन्थरं प्रति आह-'त्वर कोलिक ! नग्निकाऽहमिति' १। तथा औद्दे|शिकेऽप्यस्थिता एव, कथम् ?-इह पुरिमपश्चिमतीर्थकरसाधु उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, तेषां तु यमुद्दिश्य: कृतं तस्यैवाकल्पनीयं न शेषाणामिति २ । तथा शय्यातरराजपिण्डद्वारम्,-पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि ३।राज पिण्डे चास्थिताः, कथम्!-स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते ४।तथा कृतिकर्म 8 वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रजिता अपि संयत्यः पूर्व वन्दनं । कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५ । व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि | तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरति-18 वानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्तुं पार्यते ६ । तथा ज्येष्ठेति-ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं, | तेषां तु अनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति ८ । तथा मासपर्युषणाकल्पद्वारं,-तत्र मासकल्पेऽप्यस्थिताः, कथम् ?-पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति-तस्मिन्नपि अस्थिता एव ९-१०-इति समुदायार्थः, विस्तरार्थस्तु कल्पादवग
तेष्वपि स्थिता एव तानि, ततश्च कथा ज्येष्ठेति-ज्येष्ठ अस्थिताः, पुरि
dain Education that
For Personal & Private Use Only
www.jainelibrary.org