SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आवश्यक |हारिभद्री यवृत्तिःविभागः१ ॥७९॥ वती' तिन्यायात् , तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिक, छेदादिविशेषैस्तु विशे-| प्यमाणं अर्थतःशब्दान्तरतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च | द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य | शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्तीतियावत्, तच्च मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र ग्रथान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा["आचेलकु १ देसिय २ सेजायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिह ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो |१०॥१॥” अस्या गमनिका-चउसु ठिआ छसु अहिआ, केषु चतुर्यु इति, आह–सिज्जायरपिंडे या चाउज्जामे य |पुरिसजिढे य । किइकम्मस्स य करणे चत्तारि अवडिआ कप्पा ॥१॥ नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः ?-तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति । आह-जीणादिवस्त्रसद्भावे, कथमचे. लकत्वम् ?, उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे सति | Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy