SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अशेषचारित्रच्छेदकारीति भावार्थः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशानां' अनन्तानुबन्धिप्रभृतीनां कषायाणां, उदयेनेति संबध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयं, प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं-सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः॥११२ ॥ यतश्चैवमतः| बारसविहे कसाए खइए उवसामिए व जोगेहिं । लभइ चरित्तलंभो तस्स विसेसा इमे पंच॥ ११३॥ । व्याख्या-द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगैः-निर्वाणहुतभुतुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा-अर्धविध्यातानलोद्घट्टनसमतां नीते 'योगैः' मनोवाकायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥ ११३ ॥ अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाह सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ ११४ ॥ तत्तो य अहक्खायं खायं सव्वंमि जीवलोगमि। चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥११५॥ 'प्रथमगाथाव्याख्या-'सामायिक' इति समानां-ज्ञानदर्शनचारित्राणां आय:-समायः, समाय एवं सामायिकं, विनयादिपाठात् स्वार्थे ठक्, आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः?, उच्यते, 'एकदेशविकृतमनन्यवग SEARS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy