SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥७८॥ ष्टविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः॥ ११०॥ इदानीममुमेवार्थमुपसंहरन्नाह मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए । उदए संजलणाणं न लहइ चरणं अहक्खायं ॥ १११॥ व्याख्या-मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपाः तेषां मूलगुणानां लाभं 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनां-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ? नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषाय, सकषायं तु लभते एवेति ॥१११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धेः, तथा चाह| सव्वेविअ अइयारा संजलणाणं तु उदयओ हंति । मूलच्छिज्जं पुण होइ बारसण्हं कसायाणं ॥११२॥ व्याख्या-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किम् ?-मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोषजातं तन्मूलच्छेद्यं, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy