________________
ते तथाविधाः तेषामुदये सति, किम् ?-सम्यग्दर्शनलाभ, भव्या लभन्ते इति शेषः, अयं च वाक्यशेषो विरताविरतिवि
शेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्ती |सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं नतु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः॥१०९॥दू
तइयकसायाणुदए पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरई चरित्तलंभ न उ लहंति ॥११॥ व्याख्या-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, 'कषाया' पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ?-आवृण्वन्तीत्यावरणा, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणा: प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, नत्रा प्रतिषिद्धत्वात् , इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र न सर्वनिषेधवचनो वर्तते, इह पुनः आडने मर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वत्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशौ, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्रं' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलूधूसूखनिसहिचर इत्रः' (पा.३-२-१८४) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रंक्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ता
यख्यानमस्तीत्युक्तं, मनावरणा एव नामधेय व आवण्वन्तीत्यावर
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org