SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आवश्यक- उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्या-प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्थ घरा' इत्यादि, तेषां प्रथमिल्लुकानां-अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वा- यवृत्तिः ख्यप्रथमगुणविघातित्वात् क्षेपणक्रमाद्वेति, उदयः-उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ?- विभागः१ 'नियमात् नियमेनेति, अस्य व्यवहितपदेन साध संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लुका एव विशिप्यन्ते-किंविशिष्टानां प्रथमिल्लुकानां ?-कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते. कषायाश्चेति विग्रहः तेषामुदये, किम् ?-नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः-प्राप्तिः सम्यग्दर्शनलाभः तं, भवे सिद्धिर्येषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत् , किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि 'न लभन्ते' न प्रामुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः॥ १०८॥ बिइयकसायाणुदए अपच्चक्खाणनामधेजाणं । सम्मइंसणलंभं विरयाविरई न उ लहंति॥१०९॥ व्याख्या-'द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, 'कषाया' इति 'कष गतौ' इति कषशब्देन कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, ६ तेषां, 'उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ?-'अप्रत्याख्याननामधेयानां' न विद्यते देशविरतिसर्वविरतिरूपंत प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां RISTORAGE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy