SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मुच्यते-एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्ययेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण-"सम्मेत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा हुति ॥ १ ॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अण्णतरसेढिवजं एगभवेणं च सवाई ॥२॥" अभिहितं आनुषङ्गिक, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरण| रूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु । अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु उपशमानादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहपढमिल्लुयाण उदए नियमा संजोयणा कसायाणं । सम्मइंसणलंभं भवसिद्धीयाविन लहंति ॥ १०८॥ | SSSSSSSSSSS १ देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सद्भावादुपचयेन न देशविरतिप्रसङ्गः इति प्रथमपञ्चाशकवृत्ती. २ सम्यक्त्वे तु कन्धे पल्योपमपृथक्वेन श्रावको भवेत् । चरणोपशमक्षयेषु, सागराः संख्येया अन्तरं भवति ॥१॥ एवमप्रतिपतिते सम्यक्त्वे देवमनुष्यजन्मसु । अन्यतरश्रेणिवर्ज एकभवेनापि सर्वाणि ॥२॥ (विशे०१२२२-१२२३). ३ श्रुतसम्यक्त्वादिप्राप्तिहेतुतया प्रसङ्गः. * नेदम् + उपशमश्रे०. तदिदानी क..पशमादि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy