________________
आवश्यक
॥७६॥
प्यत्यन्तापंनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिदन्धिमासाद्य अपूर्वकरणेन च तमतिक्रम्य हारिभदीअनिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, कश्चित्परोपदेशात् , अपरस्तु प्रतीपगामी यवृत्तिः ग्रन्थिकसत्त्वो वा नैव लभते इति ५ । इदानीं ज्वरदृष्टान्तो-यथा हि ज्वरः कश्चित् स्वयमेवापैति कश्चिद्भेषजोपयोगेन विभागः१ कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति कश्चित् अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापति, करणत्रययोजना स्वयमेव कार्या ६ कोद्रवदृष्टान्तः-यथा इह केषाश्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापति, एवं मिथ्यादर्शनभावोऽपि कश्चित्स्वयमेवाति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापैति. इह च भावार्थ:-स हि जीवोऽपूर्वकरणेन मद: नार्धशुद्धशुद्धकोद्रवानिव दर्शन मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्तिकरणविशेषात्सम्यक्त्वं प्रामोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिदू यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अहंदौदिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ3 इति ७ । इदानीं जलदृष्टान्तः-यथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव ८ । वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः ९॥ १०७ ॥ प्रासङ्गिक
अत्र पूर्वत्र च, परं न दृष्टान्तानुक्रमेण किंतु यथास्वरूपं. २ दर्शनमोहनीयपुद्गलरूपं, मिथ्यात्वस्य सत्त्वेऽपि भागत्रयम्, शुद्धत्वावस्थानत आश्रित्य मिथ्यात्वस्य. ३ आदिना गणभृदादिविभूत्यादिग्रहः, तत्त्वं तु सत्कारकारणमेतदिति बुद्धौ.४ देवत्वनरेन्द्रत्वसौभाग्यरूपबलावाप्त्यादिग्रहः.*०न्तप्रनष्ट. +०तिदर्शन०.
MC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org