SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भवति १ तथा स्थाण्वारोहणं २ संजातपक्षाणां च तस्मादप्युत्पतनं ३ स्थाणुर्मूर्धनि चावस्थानं ४ कासाश्चित् स्थाणुशिरसः प्रत्यवसर्पणं ५ एवमिहापि जीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणं, स्थाण्वारोहणकल्पं त्वपूर्वकरणं, उत्पतनतुल्यं त्वनिवर्त्तिकरणमिति, स्थाणुपर्यन्तावस्थानसदृशं तु ग्रन्थयवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानं तु पुनः कर्मस्थितिवर्धनमिति ३ । पुरुषदृष्टान्तो यथा - केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपातभीरवो भयस्थानमा ढकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तात् उभयतः समुत्खात करवालपाणितस्करद्वयमालोक्य तत्रैकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति । एष दृष्टान्तोऽयमर्थोपनयः - एवमिह संसाराटव्यां पुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयं पुना रागद्वेषौ तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धस्तु प्रवैलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतो रागद्वेषचौरौ अपाकृत्य अनिवर्त्तिकरणेनावाप्तसम्यग्दर्शन इति ४ । आह - स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथम् ?, पैंथः परिभ्रष्टपुरुषत्रयवत्, यथा हि कश्चित् पर्थिं परिभ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहा स्थाणु ( इति वि० १२१० गाथावृत्तौ ) मूलं बुनोऽहिनामकः इत्यमरः २ सर्वेऽप्येते दुतार्थाः, अन्यथा अपूर्वकरणकालात्प्राक्तनत्वं विरुध्येत. ३ गंठित्ति सुदुष्भेओ कक्खडघणेत्यादिके घणरागद्दोसपरिणामोत्तिवचनात्. * पथपरि० ( वाटः पथश्च मार्गश्चेति त्रिकाण्डशेषः ) + पथप०. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy