SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भावे खओवसमिए दुवालसंगपि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥ १०४॥ व्याख्या-भवनं भावः तस्मिन् , स चौदयिकाद्यनेकभेदः, अत आह-क्षायोपशमिके' द्वादश अङ्गानि यस्मिंस्तत्। द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गाबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिमुक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, (ग्रन्थाग्रं २०००) तत्र 'बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं ?-'कषायाणां' क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणं वस्तुतो मोहनीयभेदकषायाणामत्र प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः। आह-एवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपःसंयमात्मकयोगशुन्यः' इति, तद्विशेषणमनर्थक, श्रुते सति तपःसंयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत् , किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि SSSSSSSSSSSSS आदिनाऽवधिमनःपर्यवी. २ सम्यक्त्वश्रुतादि. ३ वैशेषिकादीनां ज्ञानस्यात्मरूपत्वाभावात् तेऽत्र ग्राह्याः. ४ सर्वकषायक्षये केवलज्ञानदर्शनच्चाWIरित्राणि, क्षायिकसम्यक्त्वं तु देशकषायक्षयेऽपि भवति, तेनात्र तदा कषायक्षयस्य सामान्यतः परामर्शः. * केवळभाव: + भावात्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy