________________
आवश्यक
॥ ७२ ॥
शोधयतीति शोधकं, किं तदिति, आह - तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् ( पा० ३ - ३-९४ ) आगन्तुककर्मकचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ? - ' त्रयाणामपि ज्ञानादीनां किंविशिष्टानां ? - निश्चयतः क्षायिकानां न तु क्षायिकोपशमिकानामिति, 'समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममल वियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, 'भणितः ' उक्तः । आह - 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ १०३ ॥ इह यत् प्राक् निर्युक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्त्तमानः सन्न प्राप्नोति मोक्षं' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वेयं हेतुरवगन्तव्यः, कुतः ? - तस्यै क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्रं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह—
१ ज्ञानविशेषत्वसाधनाय २ क्षायोपशमिकत्वरूपः ३ श्रुतस्य अपिना गृहीतस्य मत्यादेश्व, अवधेस्तु दृष्टान्तत्वान्नात्र ग्रहः . ४ तथाच क्षायोपशमिके ज्ञानक्रिये क्षायिकज्ञानाद्य वा सिद्वारा मोक्षसाधनमिति ५ श्रुतज्ञाने वर्त्तमानस्य मोक्षानवाप्तेः. * सम्यग् योगः समायोगः तस्मिन् मो० + ०षरूपत्वात्.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ७२ ॥
www.jainelibrary.org