________________
नैव 'सुगते' सिद्धिदयिताया इति गाथार्थः॥१००॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छन्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह- हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ॥१०१॥
इयं निगदसिद्धैव, वरं उदाहरणं-एगंमि महाणगरे पलीवणं संवुत्तं, तंमि यं अणाहा दुवे जणा-पंगलोय अंधालो य, ते णगरलोए जलणसंभमुन्भंतलोयणे पलाय माणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाण ओऽविk पलायणमग्गं कमागएण अगणिणा दड्डो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अग|णिभरियाए खाणीए पडिऊण दड्डो। एस दिहतो, अयमत्थोवणओ-एवं नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽवि णाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसा धकं न भवति, सक्रियायोगशून्यत्वात् , नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञानसंटङ्करहितत्वात् , नगरदाह एव अन्धस्य पलायनक्रियावत् ॥ १०१॥ आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामर्थ्यानुपपत्तिः
१ परमुदाहरण-एकस्मिन् महानगरे प्रदीपनं संवृत्तं, तसिंश्च अनाथौ द्वौ जनौ-अन्धः पङ्गुश्च, तौ नगरलोकान् ज्वलनसंभ्रमोद्धान्तलोचनान् पलायमानान् पश्यन्तौ पछुः गमनक्रियाऽभावात् जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धः अन्धोऽपि गमनक्रियायुक्तः पलायनमार्गमजानन् त्वरितं ज्वलनान्तिके (ज्वलनमार्गेण) गत्वाऽग्निभृतायां खनौ (भृतेऽवटे) पतित्वा दग्धः । एष दृष्टान्तः, अयमत्रोपनयः (०मर्थोपनयः)-एवं ज्ञान्यपि क्रियारहितो न कर्माग्नेः पलायितुं समर्थः, इतरोऽपि ज्ञानरहितत्वात् इति. * ०वणगं. + तम्मिवि. पंगुलओ अंधलओ य. अंधओ य. 10माणे संते पं०. जाणतोऽवि. || नाणी..हितो उण असमत्थो. प्रसाधकं. *.प्रसाधिका. सज्ज्ञान..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org