________________
आवश्यक॥ ७० ॥
| एव सागरस्तस्मात् परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्त्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राया उन्मग्नः सन् जिनचन्द्रवचन किरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजन स्नेहविषयतुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आहअज्ञानी कूर्मों निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमज्जति इति उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन् अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ ९७ ॥ प्रक्रान्तमेवार्थ समर्थयन्नाह - सुबहुंपि सुय महीयं किं काही ? चरणविप्पा हीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ ९८ ॥ अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥ ९९ ॥ गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां को टी, अपिशब्दाद्वे अपि ॥ ९८-९९ ॥ आह— इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत एव यत आह
जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सो गईए ॥ १०० ॥ गमनिका—यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भांगी 'नतु'
व्यानुरक्त० + ०त्रैव न्य महियं. ०मुक्कस्स. कोट्यपि + ०त्त अपि ॥ सुग्ाईए.
Jain Education International
For Personal & Private Use Only
हारिभद्र यवृत्तिः विभागः १
।। ७० ।।
ww.jainelibrary.org