________________
रूपत्वात्, अतस्तं कथमसौ भाषत इति उच्यते, शब्द एव अर्थप्रत्यायन कार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुणं' सूक्ष्मं बह्नर्थं च नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा ॥ ९२ ॥ आह - शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थ, गणभृतोsपिच शब्दात्मकमेव श्रुतं ग्रनन्ति, कः खल्वत्र विशेष इति उच्यते, गाथा | संबन्धाभिधान एव विहितोत्तरत्वात् | यत्किश्चिदेतत् । आह— तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते—
सामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ । तस्सवि सारो चरणं सारो चरणस्स निव्वाणं ॥ ९३ ॥
व्याख्या - सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपर्यन्तमित्यर्थः, यावच्छन्दादेव तु व्यनेकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सार' फलं प्रधानतरं वा, चारश्वरणं भावे ल्युट्प्रत्ययः चर्यते वा अनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थे अ० १ सू० १) इति वचनात् इह त्वनन्तर फलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाचं श्रुतस्य निर्वाण हेतुत्व सामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार' फलं 'चरणस्य'
१ अत्थप्पचायणफलंमित्ति (विशे० ११२० ) इति कार्यशब्दोऽत्र फलार्थकः २ शैलेश्यवस्थारूप चरणावाप्तेरनन्तरं मोक्षावाप्तेः क्षायिकज्ञानप्राप्तेरनन्तरं तु न, देशनपूर्वकोटी विहरणादुस्कृष्टतो दर्शनं तु चतुर्थेऽपि न च तदनन्तरमपि तदाप्तिः ३ ज्ञानस्य फलं विरतिरिति पढमं नाणं तओ दया इत्यादिवचनात् + गाथार्थ संबन्धा..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org