________________
आवश्यक
संयमतपोरूपस्य, निवृतिनिर्वाणं-अशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः हारिभद्रीशैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात् ,
यवृत्तिः
विभागः१ अत उक्तं-सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः ॥ ९३ ॥ तथा चाह नियुक्तिकारःसुअनाणंमिवि जीवो वहतो सो न पाउणइ मोक्खं । जो तवसंजममइए जोए न चएइ वोढुंजे ॥९४ ॥
गमनिका-'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्रामोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वाँ, प्रयोगश्च-'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्रियाविरहात्, स्वदेशप्राप्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिसंप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति |पादपूरणे, 'इजेिराः पादपूरणे' इति वचनात् ॥ ९४ ॥ तथा चाह
जह छेयलद्धनिजामओवि पाणियगइच्छियं भूमिं । वाएण विणा पोओ न चएइ महण्णवं तरिखं ॥९॥४॥९॥ तह नाणलद्धनिजामओवि सिद्धिवसहिं न पाउणइ। निउणोवि जीवपोओ तवसंजममारुअविहूणी ॥९॥
* च. + नेतः परम्. + ए०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org