________________
मुञ्चति 'ज्ञानवृष्टिं' इति कारणे कार्योपचारात् शब्दवृष्टिं, किमर्थ ?-भव्याश्च ते जनाश्च भव्यजनाः तेषां विबोधनं तदर्थ तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्त्वकथनमनथेक, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थकरनामकर्मविपाकानुभावात् , तस्य च धर्मदेशनादिप्रकारेणैवानुभूते, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाव्यात् विबो
धाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत् , उक्तं च वादिमुख्येन-त्वद्वाक्यतोऽपि केषा६ चिदबोध इति मेऽद्भुतम् । भानोमरीचयः कस्य, नाम नालोकहेतवः? ॥१॥ न चाद्भुतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः।
स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः॥२॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान् , एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ॥ ८९॥ द्वितीयगाथाव्याख्या--'तां' इति तां ज्ञानकुसुमवृष्टिं, बुद्धिमयेनबुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधरा' प्रागुक्ताः 'ग्रहीतुं' आदातुं 'निरवशेषां' ४ संपूर्णा ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः,
तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तै प्रधानमादौ वा वचनं प्रवचनं-द्वादशाङ्गं गणिपिटकं तदर्थ, कथमिदं भवेदितियावत्, प्रवक्तीति
१ श्रीमद्भिः सिद्धसेनदिवाकरपादैात्रिंशिकायामिति प्रसिद्धिः. + स्तत्कथन.. भावकत्वात् भवात्.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org