________________
आवश्यक-व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिका- हारिभद्री
मात्रमेवैतदिति गाथार्थः॥८८॥ यदुक्तं 'अर्थपृथक्त्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसं-18 यवृत्तिः ॥६७॥ पत्समन्वितत्वप्रतिपादनायाह
विभागः१ 'तवनियमनाणरुक्खं आरूढो केवली अमियनाणी। तो मुयह नाणवुहिं भवियजणविबोहणट्ठाए ॥ ८९॥
तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाई गंथंति तओ पवयणट्ठा ॥९॥ - प्रथमगाथाव्याख्या-रूपकमिदं द्रष्टव्यं, तत्र वृक्षो द्विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानां गन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञ्जानाः सुखमामुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु |नोइन्द्रियनियम इति, ज्ञानं-केवलं संपूर्ण गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णता-2 ख्यापनायाह-संपूर्ण केवलं अस्यास्तीति केवली, असावपि चतुर्विधः-श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा ॥६७॥ श्रुतावधिमनःपर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात
* इत्थंभूतं. + बोधा.
CARROS
Jain Educati
o nal
For Personal & Private Use Only
Hind.jainelibrary.org