________________
ततो मिगावती पज्जोयस्स उदयणकुमारं णिक्खेवगणिक्खित्तं काऊण पचइआ, पज्जोअस्सवि अट्ठ अंगारवईपमुहाओ देवीओ पबइयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं एत्थ इट्टगपरंपरएण अहि यारो, एस दद्यपरंपरओ ॥ ८७ ॥ साम्प्रतं नियुक्तिशब्द स्वरूपाभिधानायेदमाह -
णिजुत्ता ते अत्था जं बडा तेण होइ णिज्जुन्ती । तहविय इच्छावेह विभासितं सुत्तपरिवाडी ॥ ८८ ॥ व्याख्या - निश्चयेन सर्वाधिक्येन आदौ वा युक्ता निर्युक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्यर्था निर्युक्ता एव सूत्रे, 'यद्' यस्मात् 'बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत् तेनेयं 'निर्युक्तिः' निर्युक्तानां युक्तिनिर्युक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या निर्युक्तिरितिहृदयं । आह— सूत्रे सम्यकू निर्युक्ता एवार्थाः पुनश्चेषां योजनं किमर्थं ?, उच्यते, सूत्रे । निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युक्तानपि सतः एषयति- इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शपू - गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का ? - 'सूत्रपरिपाटी' सूत्रपद्धतिरिति एतदुक्तं भवति - अप्रतिबुध्यमाने श्रोतरि गुरुं तदनुग्रहार्थं सूत्रपरिपाठ्येव विभाषितुमेषयति- इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं शिष्य एव गुरुं सूत्रपद्धतिमनव || बुध्यमानः प्रवर्तयति - इच्छत इच्छत मम
१ ततो मृगावती प्रद्योत उदयनकुमारस्य निक्षेपनिक्षिप्तं कृत्वा प्रब्रजिता, प्रद्योतस्याप्यष्टौ अङ्गारवतीप्रमुखाः देव्यः प्रब्रजिताः, तानि पञ्च चौरशतानि तेन गत्वा संबोधितानि । एतत् प्रसङ्गेन भणितं, अत्र इष्टकापरम्परकेणाधिकारः, एष द्रव्यपरम्परकः ॥ २ अहवा सुयपरिवाडी सुभोवएसोऽयं ( वि० ) श्रुतस्य विधिरिति तद्वृत्तिः * साध्याधि० + ०त् सूत्रे † सूत्रनि० सूत्रेऽनि० नेदम्. ६०रं वा. || ०मबुध्य०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org