________________
आवश्यक
हारिभद्री यवृत्तिः विभागः१
॥६२॥
केन ?-गुरुजनेन' तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहाथै कथानक गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेवं आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुपूर्व्या' परिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अर्हद्गणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचारादेदोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिक्रियावचन इति, अलं विस्तरेण । दवपरंपरए इमं | उदाहरणं-साकेयं णगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्नि-1 हियपाडिहेरो, सो वरिसे वरिसे चित्तिजइ, महो य से परमो कीरइ, सो य चित्तिओ समाणो तं चेव चित्तकरं मारेइ,
द्रव्यपरम्परके इदमुदाहरणम्--साकेतं नगरं, तस्य उत्तरपौरस्त्ये (ईशानकोणे ) दिग्भागे सुरप्रियं नाम यक्षायतनं, स च सुरप्रियो यक्षः (प्रतिमारूपः) सन्निहितमातिहार्यः, स वर्षे वर्षे चिन्यते, महश्च तस्य परमः क्रियते, स च चित्रितः सन् तमेव चित्रकरं मारयति, * नेदम् (कचित् ) + 0 दोषः, + गति०.
॥
Jain Education International
For Personal & Private Use Only
library.org