SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पाणां, नियुक्ति वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत् , साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ-क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत् , तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वः विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायि नियुक्तिकारेण-"जिणवयणं सिद्धं चेव भण्णई कत्थवी उदाहरणं । आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा ॥१॥ इत्यादि" । कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात् , नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायक पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां नियुक्तौ सा तथाविधा तां 'एता' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां 'समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ॥८६॥ तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाद्या ध्य व्यापापातनियुक्तिमभिधित्सुराहीजणं । आयरियपरंपरण, उप-सामीप्येन देशिता ___सामाइयनिजुत्तिं वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुवीए ॥ ८७॥ व्याख्या-सामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, १ जिनवचनं सिद्धमेव भण्यते कुत्रापि उदाहरणम् । आसाद्य तु श्रोतारं हेतुमपि क्वचिद् भणेत् ॥ १॥ * कहिंवि. + तथा तत्रोदा०. विध्ययन०. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy