SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभागः१ ॥६१॥ द्भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरादिभिः 'कथितस्य' प्रतिपादितस्य, कस्य -श्रुतज्ञानस्य भगवतः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजन नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थः॥ ८३ ॥ आह-किमशेषश्रुतज्ञानस्य ?, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाह आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजुत्तिं वुच्छामि तहा दसाणं च ॥ ८४॥ कप्पस्स य निजुतिं ववहारस्सेव परमणिउणस्स । सूरिअपण्णत्तीए वुच्छं इसिभासिआणं च ॥ ८५॥ एतेसिं निजुत्तिं वुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ॥८६॥ आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद् यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवाऽध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धिनीमिति गाथार्थः॥ ८४ ॥ तथा कल्पस्य च नियुक्तिं व्यवहारस्य च परमनिपुणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात् , तथा च न मन्वादिप्रणीतव्यवहारवयंसकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात् , तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः ॥ ८५ ॥ 'एतेषां' श्रुतविशे संज्ञाऽप्येषा श्रुतस्येति वि.. तथा कल्पवादिप्रणीत नियुक्ति, ॥ ६ ॥ विशे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy