________________
OROSAROCROSSIRSA
इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीथर्करं 'अस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ॥ एवं तावदर्थवक्तुर्मङ्गलार्थ वन्दनमभिहितं, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वात् वन्दनमाह
इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ ८२॥ व्याख्या-'एकादश' इति संख्यावाचकः शब्दः, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान् , कस्य ?-'प्रवचनस्य' आगमस्येत्यर्थः, किं ?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेष, गणधराः-आचार्यास्तेषां वंशः-प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च' आगमं च, वन्द इति योगः। आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोsप्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षाद्वत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ॥८२ ॥ इदानीं प्रकृतमुपदर्शयन्नाहते वंदिऊण सिरसा अत्यपुष्टुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुत्तिं कित्तइस्सामि ॥ ८३॥ __ व्याख्या-'तान्' अनन्तरोक्तान् तीर्थकरादीन् 'वन्दित्वा' प्रणम्य शिरसा' उत्तमाङ्गेन, किम् ?-नियुक्तिं कीर्तयिष्ये, कस्य ?-'अर्थपृथक्त्वस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तोवः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकव
चान्द्रे णिज उभयपदभावात्. २ तदेव पृथक्त्वमिति विशे० मलयगिरीयायां च. * वन्दे.
X
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org