SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥ ६० ॥ गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः - प्राप्ताः तान् अनेन चावाप्ताणिमाद्यष्टविधैश्वर्य स्वेच्छाविलसनशील पुरुषतीर्णत्वप्रतिपादनपरन्यवादव्यवच्छेदमाह, तथा च केचिदाहुः“अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ १ ॥ इत्यादि” तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेन त्वनवद्यानेकसत्त्वोपकारक तीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह, तान् 'वन्दे' अभिवादये इति गाथार्थः ॥ ८० ॥ एवं तावदविशेषेण ऋषभादीनां मङ्गलार्थं वन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्त्तमानतीर्थाधिपतेः अखिलश्रुतज्ञानार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाह विंदामि महाभागं, महामुणिं महायसं महावीरं । अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥८१॥ व्याख्या - तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भाग:- अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, महाँश्चासौ मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीर' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च - " विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ १ ॥” अमराश्च नराश्च अमरनरास्तेषां राजानः १ मङ्गल्यं महोपकारकं च वन्दे ( विशे० वृत्तौ ) * कर. + अनन्यानुरक्त० Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥ ६० ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy