SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ * , आक्रमणमाक्रमा पर्यादिभगवन्तः तेऽनुत्तमादिशुद्धैश्वर्या दिसमन्विता नित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत् , परेषामाक्रमः पराक्रमः, सोऽनुत्तरः-अनन्यसदृशो येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विव|क्षितभगयोगाभावात् , ततश्च 'अनुत्तरपराक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्या दिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तं च-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥” इत्यादि, अकात्मवादव्यवच्छेदार्थ वा । अमितं-अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह—येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिंपरिक्षयोत्तरकालभावित्वाद् अमितज्ञानस्येति, उच्यते, सत्यमेतत् , किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके-" सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ॥१॥ इत्यादि", स्वसिद्धान्तप्रसिद्धच्छास्थवीतरागव्यवच्छेदार्थ वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान तीर्णान् , तीर्वा च भवौघं 'सुगतिगतिगतान् तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः-सिद्धाः, तेषां अविकलभगवत इति. * सिद्धेश्व० + दिक्षयो। ASHASHASHASA * dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy