________________
आवश्यक
॥ ५९ ॥
प्राणातिपातादिकारणपूर्वकत्वात्, तस्ये च तंद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यॆनीकक्रिया सहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । ★ भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं - "तित्थं भंते ! तित्थं ? तित्थकरे तित्थं?, गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चारघण्णो समणसंघो, पढमगणहरो वा " । तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा - पङ्कदाहपिपासा - नामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः ॥ १ ॥ पङ्कस्तावत् पापं, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थ यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखावतारं दुरुत्तार ४ मिति द्रव्यभावतीर्थं द्रष्टव्यं तच्च सरजस्कशाक्य बोटिक साधुसंबन्धि विज्ञेयं, अलं प्रसङ्गेन । तथा भगः - समग्रैश्वर्यादिलक्षणः, उक्तं च - "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह - तीर्थकरा
१ आन्तरस्य २ अभ्यन्तरमलस्य. ३ प्राणातिपातादिकात्. ४ मिथ्यात्वादिलक्षण० ५ सम्यग्दर्शनानुसारिणी. ६ आन्तरकर्ममलक्षयाभावे. ७ तत्त्वतः भवतारणा० ८ तत्थाइमयं सरक्खाणं ॥ १०४० ॥ तच्चणियाणं बीयं विसयसुहकुसत्थभावणाधणिअं । तइयं च बोडियाणं चरिमं जद्दणं सिवफलं तु ॥ १०४ ॥ (विशे० ) ९ तीर्थं भदन्त ! तीर्थं तीर्थंकरस्तीर्थम् ?, गौतम ! अर्हन् तावन्नियमात्तीर्थकर तीर्थं पुनः चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा । १० शैवाः ११ दिगम्बराः १२ जैनसाधवः १३ अभिख्या तरक्षयाभावतो० + भवता । ०मितीत्थं.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ५९ ॥
www.jainelibrary.org