SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यकुश्रुतमेव, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव ।। उक्त उपक्रमः,(इदानीं निक्षेपः, स च त्रिधा-ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापकनिष्पन्नश्चेति ३। तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारानुसारतः प्रपश्वेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेप सामायिक, तच्च नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्त किमिति निरुत्यादावस्य स्वरूपप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमस्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेप|मात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः किं पुनः |सूत्रेऽभिधीयते इति, उच्यते, तत्र हि सूत्रालापकव्याख्यानं, न तु नाम्नः, निरुतौ तु निक्षेपद्वारन्यस्तं सामायिकमित्यध्ययनाभिधानं निरूप्यते, अलं 'प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् ?, सूत्राभावात् , असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय आदिनाऽक्षीणायक्षपणाग्रहणं 'अज्झयणं अकूखीणं आओ झवणा य पत्तेयं ति वचनात्. २ उपोद्घातनिर्युक्तौ. ३ इतः परं. *०कारित्वात्.+ सावध. || प्रसङ्गेन. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy