SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभागः१ आवश्यक-18||मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः । आह-यदि प्राप्तावसरोऽप्यसांविह न निक्षिप्यते किमित्यपन्यस्यते। इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्त्य॥५८॥ नुगमः सूत्रानुगमश्च, नियुक्त्यनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोदूधातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति । इदानीमुपोद्घातनियुक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, अस्य च महात्वान्मा भूद्विघ्न इति आरम्भे मङ्गलमुच्यते । |आह-नन मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययन प्रतिसत्रं च वक्तव्यमिति । अत्राह कश्चितू-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रादिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतोमध्यावकाश इति, स्यादेतत् , चतुरनुयोगद्वारात्मकं यतः शास्त्रं, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात् , शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत् , ततश्चायं स्थितपक्षः-इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तु नावश्यकमात्रस्य, सर्वानुयोगोपोद्घातनियुक्तित्वात् प्रक्रान्तोपोदूघातस्य, वक्ष्यति च-" आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । 'सूयगडे निजुत्ती, वोच्छामि तहा दसाणं ॥५८॥ आवश्यकसामायिकादीनां न्यासाख्यानात् निक्षेपस्थाने नान्ना कीर्तनमन तु व्याख्यानमिति. २ भावश्यकस्य दावैकालिकस्य तथा उत्तराभ्याय आचारे । सूत्रकृते नियुक्तिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्य च । । * नन्वित्थमपि. + स्थितिपक्षः स्थितः पक्षः । सुत्तगडे । निजत्ति. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy