SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥५७॥ हारिभद्रीयवृत्तिः विभागः१ संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नं, तत्र सामायिकस्य प्रायः परोपदेशसंव्यपेक्षत्वादागमे समवतारः, सच लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराँभेदभिन्न इति, तत्र सामायिकस्य परमर्षिप्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति । नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनाऽवतार इति, वक्ष्यति च-" मूढणइयं |सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिंकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिक परिमितपरिमाणं, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता १ परसमयवक्तव्यता २ उभयसमयवक्तव्यता ३ चेति । स्वसमयः-स्वसिद्धान्तः, वक्तव्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यताया नामस्थापनाद्व्यौपम्यपरिमाणज्ञानगणनभावभेदादू अनुयोगेषु यत्सूत्रम्-से किं तं संखप्पमाणे ? संख० अट्ठविहे पण्णत्ते, तंजहा-नामसंखा ठवणासंखा दवसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा- इह संख्याशब्देन संख्याशङ्खयोग्रहणं द्रष्टव्यं प्राकृतमधिकृत्य (अनु० ५४९) * ०म्पर+लिकश्रु० KARAOKAR 11.५७॥ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy