SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गुणापादनमिति, आह-यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षित हेतुजालमन्तरेणानुपपत्तेरित्यसिद्धं कथं ?, वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कलादीनां च क्षायोपशमिकत्वात् तस्य च कालान्तरेऽपि स्वयमपि संभवात् विभ्रमविलासादीनां च युवावस्थायां दर्शनात् (ग्रन्थाग्रम् १५०० ) । तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यते इति, आह— परिकर्मवस्तुविनाशोपक्रम योरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः । एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना ||वैमल्यापादनविनाशादीति । मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति । विवक्षातश्च कारकयोजना द्रष्टव्या - द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह- क्षेत्रम मूर्त्तं नित्यं च, अतस्तस्य कथं करणविनाशाविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा च तात्स्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा । तथा कालस्य वर्त्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् | द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणो वा । भावोपक्रमो द्विधा - आगमतो नोआ - गमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तो डोण्डिणिगणिकाऽमात्यादीनां, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy