________________
आवश्यक
॥५४॥
| अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मि- हारिभद्रीनिति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः । आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रो-15 यवृत्तिः च्यते, न ह्यनुपक्रान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयै-
विभागः१ विचार्यते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्पकारः, नामस्थापनाद्रव्यक्षेत्र-18 कालभावभेदभिन्न इति,तत्र नामस्थापने सुज्ञाने,द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, स च त्रिविधः-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च,तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा-घृताशुपभोगेन पुरुषस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसा-* रिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादि
CARE
॥५४॥
संभवद्भिः पर्यायैर्वस्तु नयति, यदिवा बहुधा वस्तुनः पर्यायाणां संभवात् विवक्षितपर्यायेण नयनं, आये पर्यायाणां सत्ताया ज्ञानं यथायथं, द्वितीय| मिन् पर्यायाणां मध्ये संभवतः पर्यायानाचित्येति ज्ञेयं, तथा चाये संबन्धे षष्ठी पञ्चम्याः तसुश्च, द्वितीये सप्तमी चाविभाग इति षष्ठी, गम्ययप इति पञ्चम्यास्तसुश्च. * शास्त्रस्य. .
dain Education International
For Personal & Private Use Only
ainelibrary.org