SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 3 पदर्शनद्वारेणोक्ता इति । इदानीं अध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे' लाघवार्थं वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिकंसमभावलक्षणत्वात् चतुर्विंशतिस्तवादीनां च तद्भेदैत्वात् प्राथम्यमस्येति । अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः १, अनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगमं कार्यातिपत्तये च कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं | भवति, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं इत्यतः फलवान् द्वारोपन्यासः । तानि च अमूनि - उपक्रमो १ निक्षेपो २ऽनुगमो ३ नय ४ इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमैः, शास्त्रस्य न्यासदेशानयन| मित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं + अनुगमः 1 १ नामनिष्पन्ननिक्षेपे चेति ( मलयगिरिपादाः ) २ प्रत्यध्ययनं कार्य:, लाघवार्थमिह सामायिकाध्ययने इति मलधारिपादानामभिप्रायः ३ सावज्जजोग. विरइत्यादिना प्रतिपादितः, पण्णामपि अर्थाधिकाराणां प्रतिपादनात् ४ विना समभावमितरगुणानवस्थानात् तत्सद्भाव एव परगुणोत्पत्तेः प्राथम्यमस्येत्यर्थः ५ सामायिकस्य ज्ञानदर्शनचारित्रभेदभिन्नतया चतुर्विंशत्यादेश्च सम्यक्त्वादिसामायिकरूपत्वात् सामायिक भेदत्याख्यानं. ६ सामायिकाध्ययनस्य ७ प्रतिपादनप्रकाराः ८ गुरुवाग्योगः ९ विनीतविनेयविनयः १० शुश्रूषा ११ गुरुवायोगादीनां सर्वकारकवाच्यत्वेऽप्यविरोधः * प्रतिपादनाय + तद्वारो० नास्तीदम्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy