________________
आवश्यक
॥ ५३ ॥
वचनः । सर्वपदैकवाँच्यता सामायिकादिश्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः । आह— किमिदं आवश्यकं षडध्ययनात्मकमिति, अत्रोच्यते, पडर्थाधिकारात्मकत्वात्, ते चामी सामायिकादीनां यथायोगमव| सेया इति - सावज्जजोगविरई १ उत्तिण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदण ४ वैणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १ ॥ अस्या व्याख्या - अवद्यं पापं, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, तेषां विरमणं विरतिः सामायिकार्थाधिकार इति १ उत्कीर्त्तनमुत्कीर्त्तना, तत्र गुणोत्कीर्त्तना अर्हतां चतुविंशतिस्तवस्यै २ । गुणा ज्ञानादयः मूलोत्तराख्याँ वा, तेऽस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य ३ । चशब्दः समुच्चये, ' स्खलितस्येति ' श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य ४ । तथा चारित्रात्मनो व्रणचिकित्सा - अपराधत्रणसंरोहणं कायोत्सर्गस्य ५ । अपगतत्रततिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसंधारणा | प्रत्याख्यानस्य ६ इत्यर्थाधिकाराः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धो
१ संबन्धषष्ठी, तेन परिभाषिता ज्ञाखाऽभ्युपेत्याकरणरूपा विरतिरत्र, न तु केवलाभावरूपा निवृत्तिरूपा वा २ अर्थाधिकार इति वर्त्तते. ३ व्यवहारगुर्वपेक्षया ४ बन्दनकदानादिपूजा विशेषरूपा ५ पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्त्तव्येति द्रष्टव्यं ( मलयगिरिपादाः, अनु० वृत्तौ च ११ ) इति वचनादनुक्तसमुच्चयार्थ इत्यर्थः ६ पञ्चविधावश्यकैरपगता येऽतिचारास्तदितरैर तिचारैः ७ आनुपूर्वीनामप्रमाणवक्तव्यतार्था धिकारसमवताररूपशास्त्रीयोपक्रमान्तर्गते पञ्चमद्वारे. * वाक्यता. + षण्णामधिकारा० + चिगच्छ०
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ५३ ॥
jainelibrary.org