SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥५१॥ न स्वयं नियम इत्यपवादप्रदर्शनार्थ वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उक्रमणापि अन्यारम्भेऽपि चान्यद् व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धा', तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थ आहोश्चित् पलाशाभिधानवद् अयथार्थ उत डित्थाद्यभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थ ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति । तत्र 'आवश्यक' इति कः शब्दार्थः , अवश्यं कर्त्तव्यमावश्यक, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुणशून्य मात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, है इदं च प्रपञ्चतः सूत्रांदवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्क द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यक त्रिविधं-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपि त्रिविधं-लौकिकलोकोत्तरकुमावच-| CRACARRIERAL ॥५१॥ १ आवश्यकव्याख्यानारम्भ शास्त्रान्तरव्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति. २ प्राक् नन्दी पश्चादावश्यकमित्यादिक क्रमं परि-16 त्यज्य, अपिना क्रमोऽपि पुरुषाद्यपेक्षया एव. ३ मारब्धस्यापि पुरुषाद्यपेक्षयैव व्याख्येति दर्शनायापि चेति. ४ समप्रशास्त्रवाच्यार्थपरिज्ञानेति. ५ अनुयोगद्वाररूपात् तत्रावश्यकर्निक्षेपाणां सुविस्तृततयाऽभिहितस्वात्, ६ संक्षेपेण स्वरूपाभिधानरूपोऽत्रोद्देशः ७ ज्ञशरीरभव्यशरीरव्यतिरिक्तं परामर्शनीयं तच्छब्देन, प्रत्यासत्या. * पुरुषाद्यपे० + आहोस्वित्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy