________________
साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं- 'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' । आह— नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः । आह-य द्यावश्यक स्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च शेषास्त्वनादेशा विकल्पा इति । आह - ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्याँ नियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्द्यध्येयनार्थकथनं कर्त्तव्यं, अकृते चाशैङ्का + संभवति । आह - मङ्गलार्थ शास्त्रादाववश्यमेव नन्र्न्यभिधानात् । कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का ६ भवति । किं च - आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह— यद्येवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोर्गं इति, उच्यते, शिष्यानुग्रहार्थं
१ एकोनविंशतिगाथाम्याख्याने. २ ज्ञानपञ्चकनिरूपकप्रकरणतथा नन्द्यध्ययनत्वात् ३ अङ्गमङ्गानि किमित्याद्यात्मीया. ४ नोआगमतो भावमङ्गखं हि नन्दी यतः ५ मूलसूत्रापेक्षया नन्दीव्याख्यानाऽनियमप्रदर्शनाय पक्षान्तरं - किञ्चेत्यादि. ६ तस्य ज्ञानपञ्चक निरूपण निपुणप्रकरणस्यानुयोगः * आवश्यका० + ०ख्यानानि० + भवति ० मप्रदर्शनार्थत्वाददोष इति, ६० शङ्कासंभव इति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org