SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥४९॥ यवृत्तिः विभागः १ एष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्याँस्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः !, मनसो मूर्त्तामूलद्रव्यालम्बनत्वात् , छमस्थस्य चामूर्तदर्शनविरोधादिति । सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः । नानास्वं घानाहारकापर्याप्तको प्रतिपद्यमानौ न भवतः, नापीतरौ ॥ उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवल ज्ञानं प्रतिपादयन्नाह अह सव्ववपरिणामभावविण्णत्तिकारणमणतं । सासयमप्पडिवाइ एगविहं केवलँन्नाणं ॥७७॥ ___ व्याख्या-इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपैदर्श|नार्थमथशब्द इति, उक्तं च-" अथ प्रक्रियाप्रश्नानन्तर्यमङ्गालोपन्यासप्रतिवचनसमुच्चयेषु”। सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः-प्रयोगविनसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनर्थान्तरं तस्य विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यक्षेत्रकालभावविषयं तत् , क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं | प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शाश्वतमित्येतदयुक्तं, न, ॥४९॥ १ मतस्तदर्थोऽयमथशब्दः * केवलं नाणं. + ज्ञापनं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy