________________
MEROSAROKSACROSS
| अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । ' एकविधं ' एकप्रकारं, आवरणाभावात् भयस्यैकरूपत्वात् , 'केवलं' मत्यादिनिरपेक्षं ज्ञानं ' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ ७७॥
इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेः श्रुतरूपत्वात् | तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भूम्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह
केवलणाणेणत्थे गाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं ॥७८॥ | व्याख्या-इह तीर्थकरः केवलज्ञानेन ' अर्थान् ' धर्मास्तिकायादीन् मूर्त्तामूर्त्तान् अभिलाप्यानभिलाप्यान् ' ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदभावात् , सर्वशुद्धौ देश-| शुद्ध्यभावादित्यर्थः । ये ' तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः ' तान् भाषते | | तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानेव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च, किं तर्हि ?, योग्यानेव गृहीतृशत्त्यपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात्, स च | श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतॄणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति–वयजोगसुयं हवइ तेर्सि' स वाग्योगः श्रुतं भवति । तेषां' श्रोतॄणां, भावश्रुतकारणत्वादित्यभिप्रायः । अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः॥७८॥
ॐAAAAAAACARICASARGA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org